मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५, ऋक् ३

संहिता

त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णाम् ।
अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥

पदपाठः

त्वम् । वि॒क्षु । प्र॒ऽदिवः॑ । सी॒द॒ । आ॒सु । क्रत्वा॑ । र॒थीः । अ॒भ॒वः॒ । वार्या॑णाम् ।
अतः॑ । इ॒नो॒षि॒ । वि॒ध॒ते । चि॒कि॒त्वः॒ । वि । आ॒नु॒षक् । जा॒त॒ऽवे॒दः॒ । वसू॑नि ॥

सायणभाष्यम्

हेअग्ने त्वं प्रदिवः पुराणनामैतत् पुरातनकालीनासु विक्षु प्रजासु आसु परिदृश्यमानासुच सीदः सीदसिविश्वान्तरात्मनावर्तसे तथाकृ- त्वा आत्मीयेनकर्मणा वार्याणां वरणीयानांधनानांरथीरभवः रंहयितायजमानेभ्यः प्रापयिताभूः अतःकारणात् हेचिकित्वोविद्वन् जातवे- दः जातानांप्राणिनांवेदितरग्ने विधते परिचरतेयजमानाय वसूनि धनानि आनुषगनुषक्तंसततंयथाभवतितथा विइनोषि विविधंप्रेरयसि ॥ ३ ॥ प्रवर्ग्येभिष्टवेयोनः सनुत्यइतिद्वृचः सूत्रितंच-योनःसनुत्योअभिदासदग्नेभवानोअग्नेसुमनाउपेतौइतिद्वृचाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः