मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५, ऋक् ४

संहिता

यो न॒ः सनु॑त्यो अभि॒दास॑दग्ने॒ यो अन्त॑रो मित्रमहो वनु॒ष्यात् ।
तम॒जरे॑भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा॑ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ॥

पदपाठः

यः । नः॒ । सनु॑त्यः । अ॒भि॒ऽदास॑त् । अ॒ग्ने॒ । यः । अन्त॑रः । मि॒त्र॒ऽम॒हः॒ । व॒नु॒ष्यात् ।
तम् । अ॒जरे॑भिः । वृष॑ऽभिः । तव॑ । स्वैः । तप॑ । त॒पि॒ष्ठ॒ । तप॑सा । तप॑स्वान् ॥

सायणभाष्यम्

हेअग्ने यःशत्रुः सनुत्यः सनुतरित्यन्तर्हितनाम अन्तर्हितेदेशेवर्तमानःसन् नोस्मानभिदासदुपक्षयतिबाधते यश्च अन्तरः आभ्यन्तरवर्ती- सन् हे मित्रमहः अनुकूलदीप्ते मित्राणां महयितर्वा अग्ने वनुष्यात् हिंस्यात् तमुभयविधं हेतपिष्ठतृप्ततमाग्ने तपसा तेजसा तपस्वान् तेज- स्वी त्वं अजरेभिः जरारहितैर्वृषभिर्वर्षितृभिर्वृष्टिहेतुभूतैः तवस्वैः स्वभूतैः असाधारणैस्तेजोभिस्तपदह ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः