मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५, ऋक् ५

संहिता

यस्ते॑ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभि॑ः सूनो सहसो॒ ददा॑शत् ।
स मर्त्ये॑ष्वमृत॒ प्रचे॑ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा॑ति ॥

पदपाठः

यः । ते॒ । य॒ज्ञेन॑ । स॒म्ऽइधा॑ । यः । उ॒क्थैः । अ॒र्केभिः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । ददा॑शत् ।
सः । मर्त्ये॑षु । अ॒मृ॒त॒ । प्रऽचे॑ताः । रा॒या । द्यु॒म्नेन॑ । श्रव॑सा । वि । भा॒ति॒ ॥

सायणभाष्यम्

हेसहसःसूनो बलस्यपुत्राग्ने ते त्वां योयजमानः यज्ञेन ददाशत्परिचरति यश्च समिधा समिन्धनसाधनेनेध्मेन यश्च उक्थैःशस्त्रैः अर्के- भिरर्चनीयैः स्तोत्रैश्चपरिचरति हेअमृत मरणधर्मरहिताग्ने सयजमानः मर्त्येषु मनुष्येषु प्रचेताः प्रकृष्टज्ञानःसन् राया धनेन द्युम्नेन द्योत- मानेन श्रवसा श्रवणीयेनान्नेन यशसावा विभाति विशेषेणप्रकाशते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः