मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५, ऋक् ६

संहिता

स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो॑ बाधस्व॒ सह॑सा॒ सह॑स्वान् ।
यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो॑भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ॥

पदपाठः

सः । तत् । कृ॒धि॒ । इ॒षि॒तः । तूय॑म् । अ॒ग्ने॒ । स्पृधः॑ । बा॒ध॒स्व॒ । सह॑सा । सह॑स्वान् ।
यत् । श॒स्यसे॑ । द्युऽभिः॑ । अ॒क्तः । वचः॑ऽभिः । तत् । जु॒ष॒स्व॒ । ज॒रि॒तुः । घोषि॑ । मन्म॑ ॥

सायणभाष्यम्

हेअग्ने सत्वं इषितः प्रेषितःसन् तूयं क्षिप्रं तत् कृधिकुरु किंतदित्यतआह सहस्वान् बलवांस्त्वंस्पृधः स्पर्धमानान् सहसा बलेन परेषा- मभिभवसमर्थेनतेजसावा बाधस्व विनाशय द्युभिः द्योतमानैजोभिरक्तः संसिक्तःत्वं वचोभिःस्तुतिरूपैर्वाक्यैर्यच्छस्यसे यत् स्तूयसे त्वामुद्दिश्ययत् स्तोत्रंस्तोतृभिः क्रियतइत्यर्थः तत् मन्म मननीयं घोषि षोषणीयं जरितुःस्तोत्रं जुषस्व सेवस्व ॥ ६ ॥ अग्नयेकामयपुरोडाशमष्टाकपालमित्यस्य अश्यामेत्येषायाज्या सूत्रितंच—अश्यामतंकाममग्नेतवोतीतिकामायेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः