मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६, ऋक् १

संहिता

प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः ।
वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुश॑न्तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥

पदपाठः

प्र । नव्य॑सा । सह॑सः । सू॒नुम् । अच्छ॑ । य॒ज्ञेन॑ । गा॒तुम् । अवः॑ । इ॒च्छमा॑नः ।
वृ॒श्चत्ऽव॑नम् । कृ॒ष्णया॑मम् । रुश॑न्तम् । वी॒ती । होता॑रम् । दि॒व्यम् । जि॒गा॒ति॒ ॥

सायणभाष्यम्

गातुमुपमन्तव्यं स्तोतव्यंवा सहसःसूनुं बलस्यपुत्रमग्निमवः अन्नं रक्षणंवाइच्छमानः इच्छन् स्तोता नव्यसा नवतरेणयज्ञेनयुक्तःसन् अच्छाभिमुख्येन प्रजिगाति प्रकर्षेणगच्छति कीदृशमग्निं वृश्चद्वनं वृक्णं छिन्नंदग्धंवनंयेनतादृशं कृष्णयामं कृषणवर्त्मानं रुशन्तं श्वेतव- र्णं वीती वीत्या कान्तेन यज्ञेन होतारं यष्टारं दिव्यं दिविभवम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः