मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६, ऋक् २

संहिता

स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः ।
यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥

पदपाठः

सः । श्वि॒ता॒नः । त॒न्य॒तुः । रो॒च॒न॒ऽस्थाः । अ॒जरे॑भिः । नान॑दत्ऽभिः । यवि॑ष्ठः ।
यः । पा॒व॒कः । पु॒रु॒ऽतमः॑ । पु॒रूणि॑ । पृ॒थूनि॑ । अ॒ग्निः । अ॒नु॒ऽयाति॑ । भर्व॑न् ॥

सायणभाष्यम्

सोग्निःश्वितानः श्वेतमानःश्वेतवर्णोवर्तते तन्यतुः शब्दकारी रोचनस्थाः रोचन्तेस्मिन् ग्रहनक्षत्रादीनिइतिरोचनमन्तरिक्षं तत्रस्थितः अजरेभिः जरारहितैर्नानदद्भिरत्यर्थंशब्दंकुर्वद्भिर्मरुद्भिर्युक्तोरश्मिभिर्वा यविष्ठोयुवतमः यः पावकः शोधकोग्निः पुरुतमः अतिशयेन- प्रभूतः सन् पुरूणि बहूनि पृथूनि स्थूलानि काष्ठानि भर्वन् भक्षयन् अनुयाति अनुगच्छति सइत्थमित्थंवर्तते इतिपूर्वत्रसंबन्धः ॥ २ ॥ गार्हपत्यादीनांमिथः संसर्गेअग्नयेविविचयेइष्टिः कर्तव्या तत्रवितइत्येषानुवाक्या ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः