मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६, ऋक् ४

संहिता

ये ते॑ शु॒क्रास॒ः शुच॑यः शुचिष्म॒ः क्षां वप॑न्ति॒ विषि॑तासो॒ अश्वा॑ः ।
अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्ने॑ः ॥

पदपाठः

ये । ते॒ । शु॒क्रासः॑ । शुच॑यः । शु॒चि॒ष्मः॒ । क्षाम् । वप॑न्ति । विऽसि॑तासः । अश्वाः॑ ।
अध॑ । भ्र॒मः । ते॒ । उ॒र्वि॒या । वि । भा॒ति॒ । या॒तय॑मानः । अधि॑ । सानु॑ । पृश्नेः॑ ॥

सायणभाष्यम्

हेशुचिष्मः दीप्तिमन्नग्ने ते तव शुक्रासः शुद्धाः येशुचयोदीप्तयः क्षां पृथिवीं भूमिं वपन्ति मुण्डयन्ति केशस्थानीयानोषधिवनस्पतीन् दहन्तीत्यर्थः अग्निर्हदातिरोमापृथिव्याइतिनिगमान्तरम् । तेरश्मयः विषितासः विमुक्ताअश्वाइव इतस्ततोगच्छ्न्तीतिशेषः अधास्मि- न्काले त्वदीयः भ्रमोभ्रमणशीलोज्वालासमूहः पृश्नेः नानारूपायाः भूमेः अधि उपरि सानुसमुच्छ्रितदेशं पर्वताग्रादिकं प्रतियातयमानः स्वकीयमग्रंव्यापारयन् उर्विया उरु बहुलं विभाति विशेषेणप्रकाशते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः