मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६, ऋक् ६

संहिता

आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां॑सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ ।
स बा॑ध॒स्वाप॑ भ॒या सहो॑भि॒ः स्पृधो॑ वनु॒ष्यन्व॒नुषो॒ नि जू॑र्व ॥

पदपाठः

आ । भा॒नुना॑ । पार्थि॑वानि । ज्रयां॑सि । म॒हः । तो॒दस्य॑ । धृ॒ष॒ता । त॒त॒न्थ॒ ।
सः । बा॒ध॒स्व॒ । अप॑ । भ॒या । सहः॑ऽभिः । स्पृधः॑ । व॒नु॒ष्यन् । व॒नुषः॑ । नि । जू॒र्व॒ ॥

सायणभाष्यम्

हेअग्ने भानुना दीप्त्या पार्थिवानि पृथिव्यांभवानि ज्रयांसि ज्रयतिर्गतिकर्मा गन्तव्यानिस्थानानि महः महतः तोदस्य प्रेरकस्य धृषता धर्षकेण रश्मिनासह आततंथ आस्तृणासि आच्छादयसि सत्वं भया भयकरणानि अपबाधस्व तथा सहोभिः अभिभवनसमर्थैर्बलेस्तेजो- भिर्वा स्पृधः स्पर्धमानान् वनुष्यन् हिंसन् वनुषोहिंसकान् शत्रून् निजूर्व निजहि जुर्वतिर्हंतिकर्मा ॥ ६ ॥ उखासम्भरणीयेष्टावग्नेः क्षत्रवतः सचित्रेत्येषायाज्या सूत्रितंच-सचित्रचित्रंचितयन्तमस्मेअग्निरीशेबृहतःक्षत्रियस्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः