मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७, ऋक् ३

संहिता

त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाहः॑ ।
वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजन्त्स्पृह॒याय्या॑णि ॥

पदपाठः

त्वत् । विप्रः॑ । जा॒य॒ते॒ । वा॒जी । अ॒ग्ने॒ । त्वत् । वी॒रासः॑ । अ॒भि॒मा॒ति॒ऽसहः॑ ।
वैश्वा॑नर । त्वम् । अ॒स्मासु॑ । धे॒हि॒ । वसू॑नि । रा॒ज॒न् । स्पृ॒ह॒याय्या॑णि ॥

सायणभाष्यम्

हेअग्ने वाजी हविर्लक्षणान्नवान्पुरुषः त्वत् त्वत्तःसकाशात् विप्रोमेधावीजायते तुभ्यंहविर्दानेनमेधावीभवति तथा वीरासोवीराः त्वत् त्वत्तः अभिमातिषाहः अभिमातीनांशत्रूणांअभिभवितारोजायन्ते यस्मादेवंतस्मात् हेवैश्वानर राजन् राजमानाग्ने त्वमस्मासु त्वद्भक्तेषु स्पृहयाय्याणि स्पृहणीयानि वसूनि धनानि धेहि निधेहि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः