त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वन्ते ।
तव॒ क्रतु॑भिरमृत॒त्वमा॑य॒न्वैश्वा॑नर॒ यत्पि॒त्रोरदी॑देः ॥
त्वाम् । विश्वे॑ । अ॒मृ॒त॒ । जाय॑मानम् । शिशु॑म् । न । दे॒वाः । अ॒भि । सम् । न॒व॒न्ते॒ ।
तव॑ । क्रतु॑ऽभिः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । वैश्वा॑नर । यत् । पि॒त्रोः । अदी॑देः ॥
हेअमृत मरणधर्मरहिताग्ने विश्वेसर्वेदेवाः स्तोतारः जायमानं अरण्योः सकाशादुत्पद्यमानं त्वां शिशुंन पुत्रमिव अभिसन्नवन्तेअभिसं- स्तुवन्ति यद्वा दीव्यन्तिइतिदेवारश्मयः तेसर्वेजायमानंत्वां अभिसन्नवन्ते अभि संगच्छन्ते यथापितरः पुत्रमभिगच्छन्ति अपिच हेवैश्वा- नराग्ने यद्यदा पित्रोः पालयित्र्योर्द्यावापृथिव्योर्मध्ये अदीदेः दीप्यसे तदानीं तव त्वदीयैः क्रतुभिः कर्मभिः ज्योतिष्टोमादिभिर्यागैः अमृत- त्वं देवत्वं आयन् यजमानाःप्राप्नुवन्ति ॥ ४ ॥