मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७, ऋक् ५

संहिता

वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष ।
यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽवि॑न्दः के॒तुं व॒युने॒ष्वह्ना॑म् ॥

पदपाठः

वैश्वा॑नर । तव॑ । तानि॑ । व्र॒तानि॑ । म॒हानि॑ । अ॒ग्ने॒ । नकिः॑ । आ । द॒ध॒र्ष॒ ।
यत् । जाय॑मानः । पि॒त्रोः । उ॒पऽस्थे॑ । अवि॑न्दः । के॒तुम् । व॒युने॑षु । अह्ना॑म् ॥

सायणभाष्यम्

हेवैश्वानर विश्वेषांनराणांसंबन्धिन्नग्ने तव त्वदीयानि तानि प्रसिद्धानि व्रतानि कर्माणि महानि महान्ति नकिरादधर्ष नकश्चनान्योध- र्षयति बाधते यद्यदा त्वं पित्रोर्द्यावापृ थिव्योरुपस्थे उपस्थानेन्तरिक्षे वयुनेषु गन्तव्येषुमार्गेषु जायमानः सन् अह्नांकेतुं प्रज्ञापकंसूर्यं स्वर्भानुनावृतं अविन्दः अलम्भयः तमोरूपमसुरं स्वतेजसानिवारयन् अस्थापयइत्यर्थः तदा तानिव्रतानीति पूर्वत्रान्वयः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः