मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७, ऋक् ६

संहिता

वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ ।
तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ॥

पदपाठः

वै॒श्वा॒न॒रस्य॑ । विऽमि॑तानि । चक्ष॑सा । सानू॑नि । दि॒वः । अ॒मृत॑स्य । के॒तुना॑ ।
तस्य॑ । इत् । ऊं॒ इति॑ । विश्वा॑ । भुव॑ना । अधि॑ । मू॒र्धनि॑ । व॒याःऽइ॑व । रु॒रु॒हुः॒ । स॒प्त । वि॒ऽस्रुहः॑ ॥

सायणभाष्यम्

वैश्वानरस्य विश्वनरहितस्याग्नेः चक्षसा तेजसा अमृतस्योदकस्य केतुना प्रज्ञापकेन दिवोद्युलोकस्य सानूनि समुच्छ्रितस्थलानि नक्षत्र- रूपाणि विमितानि निर्मितानि यद्वा दिवोन्तरिक्षस्यसानूनि समुच्छ्रितप्रदेशाःमेघात्मकाः विमितानि निर्मिताः धूमविकारत्वात्तेषां तस्येदु तस्यैववैश्वानरस्य मूर्धनि मूर्धस्थानीयेउपरिवर्तमानेधूमे मेघात्मना परिणते विश्वा विश्वानि व्याप्तानि भुवना भुवनान्युदकानि अधिवसन्ति यद्वा वैश्वानरात्मकस्यपरब्रह्मणोमूर्धनि उपरिप्रदेशे सर्वाणिभूतजातान्यधिवसन्ति तथावयाः शाखाइव सप्तसर्पणशीलाः सप्तसंख्यावा विस्रुहोनद्यश्च गङ्गाद्यारुरुहुः रोहन्ति अस्मादेववैश्वानरात् प्रादुर्भवन्ति आहुतिद्वारासकलंजगत् अग्नेः सकाशाद् त्पद्यते- इत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः