मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७, ऋक् ७

संहिता

वि यो रजां॒स्यमि॑मीत सु॒क्रतु॑र्वैश्वान॒रो वि दि॒वो रो॑च॒ना क॒विः ।
परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ॥

पदपाठः

वि । यः । रजां॑सि । अमि॑मीत । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । वि । दि॒वः । रो॒च॒ना । क॒विः ।
परि॑ । यः । विश्वा॑ । भुव॑नानि । प॒प्र॒थे । अद॑ब्धः । गो॒पाः । अ॒मृत॑स्य । र॒क्षि॒ता ॥

सायणभाष्यम्

सुक्रतुः सुकर्मा वैश्वानरः विश्वेषांनराणांहितोयोग्निः रजांस्युदकानि लोकावा व्यमिमीत निर्मितवान् तथा दिवोद्युलोकस्यसंबन्धीनि रोचना रोचमानानि दीप्यमानानि नक्षत्रादीनि कविः क्रान्तदर्शीसन् योग्निर्व्यमिमीत यश्च विश्वा सर्वाणि भुवनानि भूतजातानि व्या- प्तान्युदकानिवा परिपप्रथे परितोप्रथयत् सोयमदब्धः केनाप्यहिंसितः गोपाः सर्वस्यगोपायितारक्षिता अमृतस्य अमरणहेतोरुदकस्यर- क्षिता पालयितासन् वर्ततइतिशेषः ॥ ७ ॥

पृक्षस्येतिसप्तर्चमष्टमंसूक्तं भरद्वाजस्यार्षं वैश्वानराग्निदेवताकं आद्याःषड्जगत्यः सप्तमीत्रिष्टुप् तथाचानुक्रान्तम्-पृक्षस्यान्त्यात्रिष्टुबि- ति । चातुर्विंशिकेहन्याग्निमारुतेइदंसूक्तं वैश्वानरीयनिविद्धानं सूत्रितंच-पृक्षस्यवृष्णोवृष्णेशर्धायेति । आभिप्लविकेपृष्ठ्याभिप्लवषडह- योः पञ्चमेहनिइदमेवसूक्तंवैश्वानरनिविद्धानं सूत्रितंच-पृक्षस्यवृष्णोशर्धायनूचित्सहोजाइत्याग्निमारुतमिति । विषुवत्यग्निमारुते आद्यौ- तृचौस्तोत्रियानुरूपौ सूत्रितंच-पृक्षस्यवृष्णोअरुषस्यनूसहइतिस्तोत्रियानरूपाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः