मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ८, ऋक् १

संहिता

पृ॒क्षस्य॒ वृष्णो॑ अरु॒षस्य॒ नू सह॒ः प्र नु वो॑चं वि॒दथा॑ जा॒तवे॑दसः ।
वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचि॒ः सोम॑ इव पवते॒ चारु॑र॒ग्नये॑ ॥

पदपाठः

पृ॒क्षस्य॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । नु । सहः॑ । प्र । नु । वो॒च॒म् । वि॒दथा॑ । जा॒तऽवे॑दसः ।
वै॒श्वा॒न॒राय॑ । म॒तिः । नव्य॑सी । शुचिः॑ । सोमः॑ऽइव । प॒व॒ते॒ । चारुः॑ । अ॒ग्नये॑ ॥

सायणभाष्यम्

पृक्षस्य संपृक्तस्य व्याप्तस्य यद्वा पृक्षंहविर्लक्षणमन्नंतद्वतः वृष्णः वर्षितुःअरुषस्य आरोचमानस्य जातवेदसः जातानांवेदितुर्वैश्वानराग्नेः सहोबलं अभिभवनसमर्थं विदथा विदथेयज्ञे नु क्षिप्रं प्रवोचं प्रब्रवीमि प्रकर्षेणस्तौमीत्यर्थः एकोनुशब्दःपूरकः नव्यसी नवतराशुचिर्निर्म- ला यद्वा स्तोतॄणां शोधयित्री चारुः शॊभना मतिर्मननीयास्तुतिश्च अस्मैवैश्वानरायाग्नये पवते मत्सकाशात्स्रवति स्वयमेवनिर्गच्छतीत्य- र्थः सोमइव यथासोमोदशापवित्रात्स्रवति तद्वत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०