मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ८, ऋक् २

संहिता

स जाय॑मानः पर॒मे व्यो॑मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत ।
व्य१॒॑न्तरि॑क्षममिमीत सु॒क्रतु॑र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ॥

पदपाठः

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । व्र॒तानि॑ । अ॒ग्निः । व्र॒त॒ऽपाः । अ॒र॒क्ष॒त॒ ।
वि । अ॒न्तरि॑क्षम् । अ॒मि॒मी॒त॒ । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । म॒हि॒ना । नाक॑म् । अ॒स्पृ॒श॒त् ॥

सायणभाष्यम्

सवैश्वानरोग्निः व्रतपाः व्रतस्यपालकः परमे उत्कृष्टे व्योमनि व्योम्न्याकाशे जायमानः सूर्यात्मना प्रादुर्भवन् व्रतानि कर्माणि लौकि- कानि वैदिकानिच अरक्षत रक्षति अंतरिक्षंच व्यमिमीत एतदुपलक्षितान् त्रील्लोकान्निर्मितवान् तथा सुक्रतुः शोभनकर्मा वैश्वानरोग्निः महिना स्वमहिम्ना तेजसा नाकं द्युलोकं अस्पृशत् स्पृशतिस्म ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०