मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ८, ऋक् ५

संहिता

यु॒गेयु॑गे विद॒थ्यं॑ गृ॒णद्भ्योऽग्ने॑ र॒यिं य॒शसं॑ धेहि॒ नव्य॑सीम् ।
प॒व्येव॑ राजन्न॒घशं॑समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ॥

पदपाठः

यु॒गेऽयु॑गे । वि॒द॒थ्य॑म् । गृ॒णत्ऽभ्यः॑ । अग्ने॑ । र॒यिम् । य॒शस॑म् । धे॒हि॒ । नव्य॑सीम् ।
प॒व्याऽइ॑व । रा॒ज॒न् । अ॒घऽशं॑सम् । अ॒ज॒र॒ । नी॒चा । नि । वृ॒श्च॒ । व॒निन॑म् । न । तेज॑सा ॥

सायणभाष्यम्

हेअग्ने युगेयुगे कालेकाले विदथ्यं विदथोयज्ञः तदर्हंत्वामुद्दिश्य नव्यसीं नवतरांस्तुतिं गृणद्भ्यः उच्चारयितृभ्योस्मभ्यं रयिं धनं यशसं यशस्विनं पुत्रंच धेहि विधेहि कुरु किंच हेराजन् राजमान अजर जरारहिताग्ने पव्येव वज्रेणेव आत्मीयेनतेजसा वनिनंन वृक्षमिव अघशं- सं अघस्यानर्थस्यशंसितारं शत्रुं नीचा नीचीनः न्यग्भूतोयथाभवतितथा निवृश्च निजहि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०