मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ९, ऋक् २

संहिता

नाहं तन्तुं॒ न वि जा॑ना॒म्योतुं॒ न यं वय॑न्ति सम॒रेऽत॑मानाः ।
कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥

पदपाठः

न । अ॒हम् । तन्तु॑म् । न । वि । जा॒ना॒मि॒ । ओतु॑म् । न । यम् । वय॑न्ति । स॒म्ऽअ॒रे । अत॑मानाः ।
कस्य॑ । स्वि॒त् । पु॒त्रः । इ॒ह । वक्त्वा॑नि । प॒रः । व॒दा॒ति॒ । अव॑रेण । पि॒त्रा ॥

सायणभाष्यम्

वैश्वानरस्यमहत्वमाख्यास्यन् ऋषिस्तदर्थंयज्ञं वस्वात्मकतयारूपयन् तस्यदुर्ज्ञानत्वमनयाप्रतिपादयतीतियज्ञवादिनोमन्यन्ते तन्तुं तन्तवः पटस्य प्रागायतानि सूत्राणि तानिच यज्ञात्मकस्यवस्त्रस्य गायत्र्यादीनिछन्दांसि स्तुतशस्त्राणिच तान्यहं नविजानामि तथा ओतुं ओतवस्तिरश्चीनानिसूत्राणि तानिचात्रयजूंषि आध्वर्यवाणिकर्माणिच तान्यहं नविजानामि अपिच एतदुभयसाध्यंतंपटं यज्ञलक्षणं नविजानामि यंपटंयज्ञलक्षणंसमरे संगमनेदेवयजने अतमानाः सततंचेष्टमानाऋत्विजः वयन्ति तंतूनोतूंश्चसंतन्वन्ति वस्त्ररूपेणनिष्पाद- यन्तीत्यर्थः इहास्मिन् लोके कस्यस्वित् स्विदितिवितर्के कस्यखलु पुत्रोमनुष्यः वक्त्वानि वक्तव्यानितानिइमानि परः परस्तादमुष्मिन् लोके वर्तमानोयःसूर्यः तस्यपित्राअवरेण अवस्तादस्मिंल्लोकेवर्तमानेनवैश्वानराग्निना अनुशिष्टःसन् वदाति वदेत् नकश्चिदपिप्रवदितुं- शक्नोतीत्यर्थः एतच्चसंप्रदायविद्भिरुक्तं वैश्वानरस्यपुत्रोसौपरस्ताद्दिवियः स्थितः । छन्दांस्यध्वरवस्त्रस्यस्तुतशस्त्राणितन्तवः ॥ यजूं- षिचेष्टाश्चोतुःस्याद्वस्त्रंवातव्यमध्वरः । परःपरस्थितःसूर्यःपिताग्निःपार्थिवोमतइति ॥ रूपकतयाजगत्सृष्टेर्दुर्ज्ञानत्वमनयाप्रतिपादयती- त्यात्मविदोमन्यन्ते तन्तुं तन्तून् तन्तुस्थानानि सूक्ष्माणि वियदादीन्यपञ्चीकृतानि भूतानि नविजानामि ओतुं ओतून् पञ्चीकृतानि स्थू- लानि ओतुस्थानीयान्यपि वियदादीनि नविजानामि नच तत्कार्यं पटस्थानीयं प्रपंचं विजानामि यं प्रपंचं समरे तंतूनामोतूनांच संगमने अतमानाः सततंचेष्टमानाः संसारिणः वयन्ति उत्पादयन्ति तेषां भोगार्थमीश्वरः सृजतीतिकर्तृत्वमुपचर्यते इहास्मिन्विषये परः परस्ता- द्बुद्धेरविषये वर्तमानानि वक्त्वानि वक्तव्यानि इमानि अवरेण अर्वाचीनेन सृष्ट्युत्तरकालमुत्पन्नेन पित्रा स्वजनकेन अनुशिष्टःसन् क- स्यखलुपुत्रः वदाति वदेत् स्वोत्पत्तेःप्राचीनंवृत्तान्तंअजानानः कश्चिदपिनवदेदित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११