मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ९, ऋक् ३

संहिता

स इत्तन्तुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति ।
य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥

पदपाठः

सः । इत् । तन्तु॑म् । सः । वि । जा॒ना॒ति॒ । ओतु॑म् । सः । वक्त्वा॑नि । ऋ॒तु॒ऽथा । व॒दा॒ति॒ ।
यः । ई॒म् । चिके॑तत् । अ॒मृत॑स्य । गो॒पाः । अ॒वः । चर॑न् । प॒रः । अ॒न्येन॑ । पश्य॑न् ॥

सायणभाष्यम्

यद्यप्युक्तप्रकारेणदुर्ज्ञानानि तथाप्येतानि वैश्वानरोग्निर्जानाति वदतिचेत्यनयाप्रतिपादयति सइत् सएववैश्वानरोग्निःतन्तुं तन्तुस्था- नीयानि गायत्र्यादीनिछन्दांसि स्तुतशस्त्राणि विजानाति तथा सएव ओतुं ओतुस्थानीयानियजूंष्याध्वर्यवाणिचकर्माणि विजानाति ऋतुथा कालेकाले तत्तदनुष्ठानसमये वक्त्वानि वक्तव्यानिच तानि वदाति वदति वदेत् योयंवैश्वानरः अमृतस्य गोपाः उदकस्यगोपायि- तारक्षिता अवः अवस्ताद्भूलोकेचरन् पार्थिवाग्निरूपेणसंचरन् परः परस्ताद्दिवि अन्ये नसूर्यात्मनापश्यन् सर्वंजगत्प्रकाशयन् ईं इमानि परिदृश्यमानानि सर्वाणिभूतानि चिकेतत् जानाति सएवेतिपूर्वत्रसंबन्धः यद्वा सइत् सएव तन्तुं तन्तुस्थानीयानि सूक्ष्मभूतानि विजाना- ति नान्यःकश्चित् तथाओतुं ओतुस्थानीयानिस्थूलभूतानिच सएवविजानाति सएववक्त्वानि वक्तव्यान्युपदेष्टव्यानि इमानि ऋतुथा का- लेकाले यदायदाविद्यासंप्रदायोच्छेदः तदातदा वदातिवदेत् कोसौ योविजानीयात् वदेच्चेत्यतआह योवैश्वानरः विश्वनरात्मकः परमा- त्मा अमृतस्य अमृतत्वस्य विमोक्षणस्य गोपाः रक्षिता अवः अवस्तात् संसारदशायांचरन् अन्तःकरणोपेतोजीवात्मभावेनसंचरन् परः परस्तादविद्यायाःऊर्ध्वं वर्तमानेनान्येनउक्तविलक्षणेन निरुपाधिकेन सच्चिदादिलक्षणेनरूपेण पश्यन् सर्वंजगत्प्रकाशयन् ईं इमानि चिकेतज्जानाति तथाच प्रमात्मानंप्रकृत्यश्रूयते-तमेवभान्तमनुभातिसर्वंतस्यभासासर्वमिदंविभातीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११