मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ९, ऋक् ५

संहिता

ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः ।
विश्वे॑ दे॒वाः सम॑नस॒ः सके॑ता॒ एकं॒ क्रतु॑म॒भि वि य॑न्ति सा॒धु ॥

पदपाठः

ध्रु॒वम् । ज्योतिः॑ । निऽहि॑तम् । दृ॒शये॑ । कम् । मनः॑ । जवि॑ष्ठम् । प॒तय॑त्ऽसु । अ॒न्तरिति॑ ।
विश्वे॑ । दे॒वाः । सऽम॑नसः । सऽके॑ताः । एक॑म् । क्रतु॑म् । अ॒भि । वि । या॒न्ति॒ । सा॒धु ॥

सायणभाष्यम्

ध्रुवं निश्चलं मनः मनसः त्स्मादपि जविष्ठं अतिशयेनवेगवत् ईदृशंवैश्वानराख्यंज्योतिः पतयत्सु गच्छत्सु जंगमेषुप्राणिषु अन्तर्मध्ये निहितं प्रजापतिवास्थापितं किमर्थं दृशये कंदर्शनार्थं किंच विश्वेसर्वेदेवाश्च समनसः समानमनस्काः सकेताः समानप्रज्ञाश्चसन्तः एकं मुख्यं गन्तारंवा क्रतुं कर्मणांकर्तारं वैश्वानरं साधु सम्यक् अभिवियन्ति आभिमुख्येनविविधंप्राप्नुवन्ति सेवन्तइत्यर्थः यद्वा पतयत्सु गच्छत्सु प्राणिष्वन्तर्मध्ये हृदये मनोजविष्ठं मनसोप्यतिशयेनवेगयुक्तं ध्रुवं निश्चलं निर्विकल्पं तथाचवाजसनेयकं—अनेजदेकंमनोजवी- यइति । ज्योतिः ब्रह्मचैतन्यं निहितं नकेनचित् स्थापितं योवेदनिहितंगुहायांपरमेव्योमन्नितिहि श्रूयते । किमर्थं दृशये दर्शनार्थं ज्ञानेन- हिसर्वंजानन्ति अपिच दीव्यन्तीतिदेवाइन्द्रियाणि विश्वे सर्वेदेवाः सर्वाणींद्रियाणि चक्षुराद्याः समनसः मनसासहवर्तमानाः सकेताः सतेजस्काः सन्तः एकमद्वितीयं क्रतुं सृष्ट्यादीनांकर्मणांकर्तारं विश्वनरात्मकं परमात्मानं अभिलक्ष्य साधु सम्यक् वियन्ति विविधंगच्छ- न्ति देवाएववा इमं अभिवियन्ति आभिमुख्येन विविधमुपयन्ति उपासतइत्यर्थः तथाचश्रूयते—तद्देवाज्योतिषांज्योतिरायुर्होपासतेमृत- मिति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११