मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ९, ऋक् ७

संहिता

विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस॑म् ।
वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥

पदपाठः

विश्वे॑ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम॑सि । त॒स्थि॒ऽवांस॑म् ।
वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ । अम॑र्त्यः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ ॥

सायणभाष्यम्

हेवैश्वानर तमस्यन्धकारे तस्थिवांसं स्थितवन्तंत्वां विश्वे सर्वेदेवाः अनमस्यन् नमस्कुर्वंति कुतोहेतोः भियानाः अन्धकाराद्भीताः तादृशोऽमर्त्योमरणरहितोवैशानरोग्निः नोस्मान् ऊतयेऊत्या रक्षणेनावतु रक्षत पुनरुक्तिराद्रार्था ॥ ७ ॥

पुरोवइतिसप्तर्चंदशमंसूक्तं भरद्वाजस्यार्षमाग्नेयं सप्तमीविंशिकाद्विपदाविराट् शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं—पुरोवोद्विपदान्तम् । प्रातरनुवाकेआग्नेयेक्रतौ त्रैष्टुभेछन्दसीदमादीनिचत्वारिसूक्तानि सूत्रितंच—पुरोवोमन्द्रमितिचत्वारितंसुप्रतीकमितिषळिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११