मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १०, ऋक् १

संहिता

पु॒रो वो॑ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वम् ।
पु॒र उ॒क्थेभि॒ः स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥

पदपाठः

पु॒रः । वः॒ । म॒न्द्रम् । दि॒व्यम् । सु॒ऽवृ॒क्तिम् । प्र॒ऽय॒ति । य॒ज्ञे । अ॒ग्निम् । अ॒ध्व॒रे । द॒धि॒ध्व॒म् ।
पु॒रः । उ॒क्थेभिः॑ । सः । हि । नः॒ । वि॒भाऽवा॑ । सु॒ऽअ॒ध्व॒रा । क॒र॒ति॒ । जा॒तऽवे॑दाः ॥

सायणभाष्यम्

हेऋत्विग्यजमानावोयूयं मन्द्रं मोदनं स्तुत्यंवा दिव्यं दिविभवं सुवृक्तिं सुष्ठु दोषैर्वर्जितं सुखेनावर्जनीयंवा एवंगुणमग्निं प्रयति प्रग- च्छति प्रवर्तमानेध्वरे रक्षःप्रभृतिभिरहिंस्ये हिंसाप्रत्यवायरहितेवास्मिन्यज्ञे पुरोदधिध्वं पुरस्तादाहवनीयरूपेणधारयत यद्वा पुरो- धसंकुरुत उक्थेभिः स्तुतशस्त्रैश्च पुरोदधिध्वं विभावा विशेषेणदीप्यमानः जातवेदाः जातानांवेदितासोग्निः हियस्मात् नोस्मान् स्वध्वरा शोभनयागान् करति करोति तस्मात्पुरोदधिध्वमित्यन्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२