मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १०, ऋक् २

संहिता

तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः ।
स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते ॥

पदपाठः

तम् । ऊं॒ इति॑ । द्यु॒ऽमः॒ । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । अग्ने॑ । अ॒ग्निऽभिः॑ । मनु॑षः । इ॒धा॒नः ।
स्तोम॑म् । यम् । अ॒स्मै॒ । म॒मता॑ऽइव । शू॒षम् । घृ॒तम् । न । शुचि॑ । म॒तयः॑ । प॒व॒न्ते॒ ॥

सायणभाष्यम्

हेद्युमः दीप्तिमन् पुर्वणीक बहुज्वाल होतर्देवानामाह्वातरग्ने अग्निभिस्तवावयवभूतैरन्यैरग्निभिःसार्धं इधानः समिध्यमानःदीप्तःसन् मनुषः मनुष्यस्यस्तोतुः तमु तंस्तोमंश्रृण्वितिशेषः उइतिपादपूरणं यंस्तोमंस्तोत्रं शूषं सुखकरं घृतंन पवित्राभ्यामुत्पूतं घृतमिव शुचि शुद्धं अस्माअग्नये मतयोमन्तारःस्तोतारः ममतेव ममतानामब्रह्मवादिनीदीर्घतमसोमाता सेव पवन्ते पुनन्ति संस्कुर्वन्ति दोषवर्जितमु- च्चारयन्तीत्यर्थः तंस्तोममित्यन्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२