मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १०, ऋक् ३

संहिता

पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः ।
चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥

पदपाठः

पी॒पाय॑ । सः । श्रव॑सा । मर्त्ये॑षु । यः । अ॒ग्नये॑ । द॒दाश॑ । विप्रः॑ । उ॒क्थैः ।
चि॒त्राभिः॑ । तम् । ऊ॒तिऽभिः॑ । चि॒त्रऽशो॑चिः । व्र॒जस्य॑ । सा॒ता । गोऽम॑तः । द॒धा॒ति॒ ॥

सायणभाष्यम्

सयजमानः मर्त्येषुमनुष्येषु श्रवसान्नेन पीपाय वर्धति विप्रोमेधावी योयजमानः उक्थैः स्तुतिभिः सार्धं हवींषि ददाश प्रयच्छति तंयजमानं चित्रशोचिर्विचित्रदीप्तिरग्निः चित्राभिराश्चर्यभूताभिःऊतिभीरक्षाभिर्गोमतोगोभिर्युक्तस्यव्रजस्य गोष्ठस्य साता सातौ संभजने दधाति धारयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२