मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १०, ऋक् ४

संहिता

आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ ।
अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥

पदपाठः

आ । यः । प॒प्रौ । जाय॑मानः । उ॒र्वी इति॑ । दू॒रे॒ऽदृशा॑ । भा॒सा । कृ॒ष्णऽअ॑ध्वा ।
अध॑ । ब॒हु । चि॒त् । तमः॑ । ऊर्म्या॑याः । ति॒रः । शो॒चिषा॑ । द॒दृ॒शे॒ । पा॒व॒कः ॥

सायणभाष्यम्

कृष्णाध्वा कृष्णवर्त्मायोग्निः जायमानः प्रादुर्भवन् उर्वीविस्तीर्णे द्यावापृथिव्यौ दूरेदृशा दूरेदृश्यमानया भासा दीप्त्या आपप्रौ आपू- रयति सपावकोग्निरधानन्तरं ऊर्म्यायाः रात्रिनामैतत् रात्रेःसंबन्धि बहुचित् बह्वपितमः अन्धकारं शोचिषा दीप्त्या तिरस्कुर्वन् ददृशे दृश्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२