मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १०, ऋक् ५

संहिता

नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि ।
ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्त्सु॒वीर्ये॑भिश्चा॒भि सन्ति॒ जना॑न् ॥

पदपाठः

नु । नः॒ । चि॒त्रम् । पु॒रु॒ऽवाजा॑भिः । ऊ॒ती । अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । च॒ । धे॒हि॒ ।
ये । राध॑सा । श्रव॑सा । च॒ । अति॑ । अ॒न्यान् । सु॒ऽवीर्ये॑भिः । च॒ । अ॒भि । सन्ति॑ । जना॑न् ॥

सायणभाष्यम्

हेअग्ने मघवद्भ्योहविर्लक्षणधनयुक्तेभ्योनोस्मभ्यं पुरुवाजाभिर्बह्वन्नैः ऊती ऊतिभीरक्षणैः सह चित्रं चायनीयंरयिं धनं नु क्षिप्रं धेहि देहि प्रयच्छ चशब्दोवक्ष्यमाणेनसमुच्चयार्थः ये राधसाधनेन श्रवसान्नेनच सुवीर्येभिः शोभनैर्वीर्यैश्च अन्यान् जनान् मनुष्यानति अतिशयेनाभिसंति अभिभवन्ति तादृशान्पुत्रांश्चास्मभ्यंदेहीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२