मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १०, ऋक् ६

संहिता

इ॒मं य॒ज्ञं चनो॑ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् ।
भ॒रद्वा॑जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ॥

पदपाठः

इ॒मम् । य॒ज्ञम् । चनः॑ । धाः॒ । अ॒ग्ने॒ । उ॒शन् । यम् । ते॒ । आ॒सा॒नः । जु॒हु॒ते । ह॒विष्मा॑न् ।
भ॒रत्ऽवा॑जेषु । द॒धि॒षे॒ । सु॒ऽवृ॒क्तिम् । अवीः॑ । वाज॑स्य । गध्य॑स्य । सा॒तौ ॥

सायणभाष्यम्

हेअग्ने उशन् कामयमानस्त्वं इमं पुरोवर्तियज्ञं यागसाधनं नोहविर्लक्षणमन्नं धाः धेहि स्वात्मनिधारय यंच पुरोडाशादिकं आसानः आसीनः उपविशन् हविष्मान् हविर्युक्तोयजमानस्तेतुभ्यं त्वदर्थं जुहुते जुहोति तमिममित्यन्वयः अपिच भरद्वाजेष्वृषिषु सुवृक्तिं सुष्ठु- दोषैर्वर्जितांस्तुतिं दधिषे धारय गध्यस्य गध्यतिर्मिश्रीभावकर्मा मिश्रणीयस्य प्राप्यस्य वाजस्यान्नस्य सातौ संभजनेनिमित्तभूते अवी- स्तानृषीन्त्रक्षच ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२