मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ११, ऋक् १

संहिता

यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति ।
आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥

पदपाठः

यज॑स्व । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । अग्ने॑ । बाधः॑ । म॒रुता॑म् । न । प्रऽयु॑क्ति ।
आ । नः॒ । मि॒त्रावरु॑णा । नास॑त्या । द्यावा॑ । हो॒त्राय॑ । पृ॒थि॒वी इति॑ । व॒वृ॒त्याः॒ ॥

सायणभाष्यम्

हेहोतर्देवानामाह्वातरग्ने यजीयान् यष्टृतमत्स्वं इषितः प्रेषितः अस्माभिःप्रार्थितःसन् नेतिसंप्रत्यर्थे संप्रतिप्रयुक्ति प्रयुक्तौ प्रयुज्यमा- नेयज्ञे मरुतां देवानां बाधः शत्रूणांबाधकंगणं ययस्व यद्वैतद्वाक्यद्वयं हेहोतरग्ने यजस्व देवानित्येकंवाक्यं प्रयुज्यतइतिप्रयुक्ति बलं मरुतां- नप्रयुक्ति मरुतांबलमिव अस्मच्छत्रून् बाधोबाधस्वेतिद्वितीयंवाक्यं अपिच मित्रावरुणा अहरभिमानीदेवोमित्रः वरुणोरात्र्यभिमानी तौच नासत्या सत्यस्यनेतारौ सत्यस्वभावावेववा नासिकाप्रभवौवा अश्विनौ द्यावापृथिवीदिवंचपृथिवींच एतांश्चदेवान् होत्राय अस्मद्य- ज्ञाय तदर्थं आववृत्याः आवर्तय आवहेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३