मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ११, ऋक् ३

संहिता

धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै ।
वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥

पदपाठः

धन्या॑ । चि॒त् । हि । त्वे इति॑ । धि॒षणा॑ । वष्टि॑ । प्र । दे॒वान् । जन्म॑ । गृ॒ण॒ते । यज॑ध्यै ।
वेपि॑ष्ठः । अङ्गि॑रसाम् । यत् । ह॒ । विप्रः॑ । मधु॑ । छ॒न्दः । भन॑ति । रे॒भः । इ॒ष्टौ ॥

सायणभाष्यम्

धन्या धनमिच्छन्ती धनहेतुभूताधिषणास्तुतिः हेअग्ने तेत्वां वष्टि कामयते चिद्धीत्येतत्पादपूरणं किमर्थं देवान्यष्टव्यानिन्द्रादीन् प्रय- जध्यै प्रकर्षेणयष्टुं त्वदीयंजन्मप्रादुर्भावं गृणते स्तुवतेयजमानाय ईदृग्भूतयजमानार्थं यद्ध यदाखलु अङ्गिरसामृषीणांमध्ये वेपिष्ठः अति- शयेन स्तुतेःप्रेरयिता विप्रोमेधावी रेभः स्तोताभरद्वाजः इष्टौ यज्ञे मधु मधुवन्मदकरं छन्दः स्तोत्रं भनति उच्चारयति तदाधिषणावष्टीत्य- न्वयः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३