मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ११, ऋक् ५

संहिता

वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः ।
अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षु॑ः ॥

पदपाठः

वृ॒ञ्जे । ह॒ । यत् । नम॑सा । ब॒र्हिः । अ॒ग्नौ । अया॑मि । स्रुक् । घृ॒तऽव॑ती । सु॒ऽवृ॒क्तिः ।
अम्य॑क्षि । सद्म॑ । सद॑ने । पृ॒थि॒व्याः । अश्रा॑यि । य॒ज्ञः । सूर्ये॑ । न । चक्षुः॑ ॥

सायणभाष्यम्

यद्ध यदाखलु नमसा हविषासह अग्नौ अग्निसमीपे बर्हिर्वृञ्जे वृजिश्छेदनार्थः छिद्यते आह्रियतइत्यर्थः सुवृक्तिः सुष्ठुदोषैर्वर्जिता घृतवती घृतपूर्णास्रुक् अयामि नियम्यते बर्हिष्यासाद्यते तथा पृथिव्याभूमेः सदने स्थाने सद्महविरासादनार्थावेदिः अम्यक्षि म्यक्षतिर्गतिकर्मा गम्यते परिगृह्यते तदानींयज्ञः अश्रायि यजमानेआश्रितोभवति तत्रदृष्टान्तः—सूर्येनचक्षुः यथा सूर्येसर्वस्यप्रेरकेआदित्येप्रकाशकंतेजः सम- वैतितद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३