द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः ।
रा॒यः सू॑नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ॥
द॒श॒स्य । नः॒ । पु॒रु॒ऽअ॒नी॒क॒ । हो॒तः॒ । दे॒वेभिः॑ । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒धा॒नः ।
रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । व॒व॒सा॒नाः । अति॑ । स्र॒से॒म॒ । वृ॒जन॑म् । न । अंहः॑ ॥
हेपुर्वणीक बहुज्वाल होतर्देवानामाह्वातरग्ने देवेभिर्देवैर्द्योतमानैः अन्यैरग्निभिःत्वद्विभूतिभूतैःसार्धं इधानः इध्यमानोदीप्यमानःसन् नोस्मभ्यं रायोधनानि दशस्य प्रयच्छ हेसहसः सूनो बलस्यपुत्राग्ने वावसानाः हविषात्वामाच्छादयन्तोवयं वृजनंन शत्रुमिव अंहः पापं अतिस्रसेम अतिगच्छेम अतिक्रामेमेत्यर्थः ॥ ६ ॥
मध्येहोतेतिषळृचंद्वादशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं मध्यइत्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।