मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १२, ऋक् १

संहिता

मध्ये॒ होता॑ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै ।
अ॒यं स सू॒नुः सह॑स ऋ॒तावा॑ दू॒रात्सूर्यो॒ न शो॒चिषा॑ ततान ॥

पदपाठः

मध्ये॑ । होता॑ । दु॒रो॒णे । ब॒र्हिषः॑ । राट् । अ॒ग्निः । तो॒दस्य॑ । रोद॑सी॒ इति॑ । यज॑ध्यै ।
अ॒यम् । सः । सू॒नुः । सह॑सः । ऋ॒तऽवा॑ । दू॒रात् । सूर्यः॑ । न । शो॒चिषा॑ । त॒ता॒न॒ ॥

सायणभाष्यम्

होता देवानामाह्वाता बर्हिषोयज्ञस्य राट् राजाग्निः तोदस्य तुद्यतेतपसापीड्यतेइतितोदोयजमानः तस्यदुरोणेगृहे मध्येनिषीदतीति- शेषः किमर्थं रोदसी द्यावापृथिव्यौ यजध्यै यष्टुं सतादृशोयं सहसःसूनुः सहसस्पुत्रः ऋतावा सत्यवान् यज्ञवान् वाग्निः सूर्योन सूर्यइव दूरात् दूरतएव शोचिषा तेजसा ततान आतनोति विस्तारयति दूरदेशेवर्तमानोपि सूर्यइवसर्वंजगद्भासयतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४