मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १२, ऋक् २

संहिता

आ यस्मि॒न्त्वे स्वपा॑के यजत्र॒ यक्ष॑द्राजन्त्स॒र्वता॑तेव॒ नु द्यौः ।
त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो॑ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ॥

पदपाठः

आ । यस्मि॑न् । त्वे इति॑ । सु । अपा॑के । य॒ज॒त्र॒ । यक्ष॑त् । रा॒ज॒न् । स॒र्वता॑ताऽइव । नु । द्यौः ।
त्रि॒ऽस॒धस्थः॑ । त॒त॒रुषः॑ । न । जंहः॑ । ह॒व्या । म॒घानि॑ । मानु॑षा । यज॑ध्यै ॥

सायणभाष्यम्

द्यौःस्तोता सर्वतातेव इवशब्दःपूरकः यज्ञनामैतत् सर्वतातौ सर्वैस्तायमानेयज्ञे यद्वा सर्वशब्दात् स्वार्थिकस्तातिल् प्रत्ययः सर्वस्तोता हेयजत्र यष्टव्य राजन् राजमानाग्ने अपाके प्राज्ञे त्वे यस्मिंस्त्वेत्वयि सु अत्यन्तं नु क्षिप्रं आयक्षत् आयजति हवींषिजुहोति त्रिषधस्थः त्रिषुलोकेषुसहस्थितः यद्वा गार्हपत्यादिरूपेणत्रिधावस्थितः तादृशस्त्वं तरुषोन तरितासूर्यइव जंहः शीघ्रंगन्ताभव जंहइतिहन्तेर्गतिकर्म- णोरूपं यद्वा तॄप्लवनतरणयोरित्यस्मात्क्वसौरूपंततर्वानिति तस्य षष्ठ्यांरूपमेतत् ततरुषइति तरितुःसूर्यस्येवजंहोवेगस्तवभवत्वित्यर्थः किमर्थं मघानि मंहनीयानि प्रशस्यानि मानुषा मनुष्याणांसंबंधीनि हव्या हव्यानि हवींषि यजध्यै यष्टुं देवेभ्योदातुम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४