मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १२, ऋक् ३

संहिता

तेजि॑ष्ठा॒ यस्या॑र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् ।
अ॒द्रो॒घो न द्र॑वि॒ता चे॑तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ॥

पदपाठः

तेजि॑ष्ठा । यस्य॑ । अ॒र॒तिः । व॒ने॒ऽराट् । तो॒दः । अध्व॑न् । न । वृ॒ध॒सा॒नः । अ॒द्यौ॒त् ।
अ॒द्रो॒घः । न । द्र॒वि॒ता । चे॒त॒ति॒ । त्मन् । अम॑र्त्यः । अ॒व॒र्त्रः । ओष॑धीषु ॥

सायणभाष्यम्

यस्यग्नेः अरतिर्गन्त्रीज्वाला तेजिष्ठा अतिशयेनतेजस्विनीसती वनेराट् दावरूपेणअरण्येराजमानावर्तते वृधसानोवर्धमानः सोग्निः तो- दोअध्वंन तोदः सर्वस्यप्रेरकःसूर्यः सइव अध्वनि स्वमार्गेन्तरिक्षे अद्यौत् द्योततेप्रकाशते अपिच अद्रोघोन अद्रोग्धव्योयद्वा प्राणरूपेणसर्वे- षामद्रोग्धावायुरिव तादृशः अमर्त्योमरणरहितः सोग्निः ओषधीषु ओषः पाकः पषुधीयतेइत्योषधयोवनानि तेषु द्रविता शीघ्रगामीसन् अवर्त्रः केनाप्यवारणीयश्चभवन् त्मन् आत्मना स्वप्रकाशेनैवचेतति चेतयति सर्वंजगत् ज्ञापयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४