मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १२, ऋक् ४

संहिता

सास्माके॑भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।
द्र्व॑न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ॥

पदपाठः

सः । अ॒स्माके॑भिः । ए॒तरि॑ । न । शू॒षैः । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः ।
द्रुऽअ॑न्नः । व॒न्वन् । क्रत्वा॑ । न । अर्वा॑ । उ॒स्रः । पि॒ताऽइ॑व । जा॒र॒यायि॑ । य॒ज्ञैः ॥

सायणभाष्यम्

जातवेदाः जातधनोजातप्रज्ञोवा सोग्निः अस्माकेभिरस्मदीयैः स्तोतृभिः एतरीन एतरिगन्तरि याचमानेपुरुषे विद्यमानानिस्तोत्रा- णियथात्यन्तं सुखकराणि तथा शूषैः सुखकरैःस्तोत्रैः दमेस्मदीयेयज्ञगृहे आ आभिमुख्येन स्तवे स्तूयते अपिच द्व्रन्नः द्रुः द्रुमः सएवअन्नंय- स्यसतथोक्तः अतएव वन्वन् वनानि संभजन् क्रत्वान क्रतुना आत्मीयेनकर्मणाच अर्वा गन्ताभवति तत्रदृष्टान्तः—उस्रः पितेव पितापाल- यितावत्सानांजनकोवा उस्रोवृषभइव सयथा मैथुनार्थंशीघ्रंगच्छतितद्वत् यज्ञैर्यज्ञवद्भिर्यजमानैश्च जारयायि स्तूयते जरतेः स्तुतिकर्मण- एतद्रूपम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४