मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १३, ऋक् २

संहिता

त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः ।
अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरे॑ः ॥

पदपाठः

त्वम् । भगः॑ । नः॒ । आ । हि । रत्न॑म् । इ॒षे । परि॑ज्माऽइव । क्ष॒य॒सि॒ । द॒स्मऽव॑र्चाः ।
अग्ने॑ । मि॒त्रः । न । बृ॒ह॒तः । ऋ॒तस्य॑ । असि॑ । क्ष॒त्ता । वा॒मस्य॑ । दे॒व॒ । भूरेः॑ ॥

सायणभाष्यम्

हेअग्ने भगोभजनीयस्त्वं नोस्मभ्यं रत्नं रमणीयंधनं आइषे आगमय प्रयच्छ इण् गतावित्यस्यैतद्रूपं हीतिपूरकः दस्मवर्चाः दर्शनीयदी- प्तिस्त्वं परिज्मेवपरितोगन्तावायुरिव क्षयसि सर्वत्रनिवससि यद्वा क्षयतिरैश्वर्यकर्मा सर्वस्येशिषे हेअग्ने मित्रोन प्रमीतेस्त्रायकोदेवइव बृहतोमहतःऋतस्योदकस्य यज्ञस्यवा क्षत्तासि क्षदतिरत्रदानकर्मा दाताभवसि तथा हेदेव द्योतमानाग्ने भूरेर्बहुलस्य वामस्य वननीयस्य धनस्यच दाताभवसीत्यनुषङ्गः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५