मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १३, ऋक् ४

संहिता

यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् ।
विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यै॑ः ॥

पदपाठः

यः । ते॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । य॒ज्ञैः । मर्तः॑ । निऽशि॑तम् । वे॒द्या । आन॑ट् ।
विश्व॑म् । सः । दे॒व॒ । प्रति॑ । वार॑म् । अ॒ग्ने॒ । ध॒त्ते । धा॒न्य॑म् । पत्य॑ते । व॒स॒व्यैः॑ ॥

सायणभाष्यम्

हेसहसःसूनो बलस्यपुत्राग्ने ते तव निशितिं तैक्ष्ण्यं योमर्तोमनुष्योयजमानः गीर्भिः स्तुतिभिः उक्थैः शस्त्रैः यज्ञैर्यजनसाधनैः हविर्भि- श्च वेद्या वेद्यायां यज्ञभूमौ आनट् प्रापयति समर्तः हेदेव द्योतमानाग्ने विश्वं सर्वं अरं पर्याप्तं वाशब्दश्चार्थे धान्यंच प्रतिधत्ते प्रतिधारयति वसव्यैर्वसुभिश्चपत्यते संगच्छते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५