मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १३, ऋक् ५

संहिता

ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः ।
कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥

पदपाठः

ता । नृऽभ्यः॑ । आ । सौ॒श्र॒व॒सा । सु॒ऽवीरा॑ । अग्ने॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । पु॒ष्यसे॑ । धाः॒ ।
कृ॒णोषि॑ । यत् । शव॑सा । भूरि॑ । प॒श्वः । वयः॑ । वृका॑य । अ॒रये॑ । जसु॑रये ॥

सायणभाष्यम्

हेसहसःसूनो सहसस्पुत्राग्ने सुवीराः शोभनैःपुत्रैरुपेतानि सौश्रवसा सुश्रवांसि शोभनान्यन्नानि ता तानि नृभ्यः शत्रुजनेभ्यः आहृत्य धाः अस्मासुधेहि किमर्थं पुष्यसे पोषार्थं यद्वा नृभ्यः स्तुतीनांनेतृभ्योस्मभ्यं आधेहि आभिमुख्येनप्रयच्छ् शवसा बलेनयुक्तस्त्वं भूरि बहुलं पश्वः संबन्धिदध्यादिलक्षणं यद्वयोन्नं वृकाय आदात्रे जसुरये उपक्षपयित्रे कृणोषि तदन्नमाहृत्यप्रयच्छेत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५