मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १३, ऋक् ६

संहिता

व॒द्मा सू॑नो सहसो नो॒ विहा॑या॒ अग्ने॑ तो॒कं तन॑यं वा॒जि नो॑ दाः ।
विश्वा॑भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥

पदपाठः

व॒द्मा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । विऽहा॑याः । अग्ने॑ । तो॒कम् । तन॑यम् । वा॒जि । नः॒ । दाः॒ ।
विश्वा॑भिः । गीः॒ऽभिः । अ॒भि । पू॒र्तिम् । अ॒श्या॒म् । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेसहसःसूनोग्ने विहायाः महन्नामैतत् महांस्त्वं नोस्माकं वद्मा वदिता हितोपदेष्टाभव अपिच तोकं तनयं तत्पुत्रंच वाजि अन्नयुक्तं नोस्मभ्यं दाः देहि अहंस्तोता विश्वाभिः सर्वाभिर्गीर्भिस्त्वद्विषयाभिः स्तुतिभिः पूर्ति कामानांपूर्ति अभ्यश्यां अभिप्राप्नुयां अन्यद्गतम् ॥ ६ ॥

अग्नायइतिषळृचंचतुर्दशंसूक्तं भरद्वाजस्यार्षमाग्नेयं षष्ठीशक्वरी शिष्टाःपञ्चानुष्टुभः तथाचानुक्रान्तं—अग्नायआनुष्टुभंशक्वर्यंतमिति । प्रा- तरनुवाके आग्नेयेक्रतौ आश्विनशस्त्रेचेदंसूक्तं सूत्रितंच—अग्नायोहोताजनिष्टेति । अत्रेश्चतुर्वीराख्ये चतूरात्रेऽहीनेतृतीयेहनीदंसूक्तं आज्यश- स्त्रं सूत्रितंच—अग्नायोमर्त्योदुवइतितृतीयइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५