मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १४, ऋक् २

संहिता

अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषि॑ः ।
अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ॥

पदपाठः

अ॒ग्निः । इत् । हि । प्रऽचे॑ताः । अ॒ग्निः । वे॒धःऽत॑मः । ऋषिः॑ ।
अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु॑ । मनु॑षः । विशः॑ ॥

सायणभाष्यम्

अग्निरित् अग्निरिव प्रचेताः प्रकृष्टज्ञानवान् नान्यःकश्चित् हियस्मादेवंतस्मात् वेधस्तमोविधातृतमोतिश्येनहविर्वहनादीनांकर्मणांकर्ता ऋषिः सर्वस्यद्रष्टाभवति मनुषोमनुष्यस्य यजमानस्य विशः प्रजाऋत्विग्लक्षणाहोतारंदेवानामाह्वातारं तादृशमग्निं यज्ञेषु यागेषुईळते स्तवन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६