मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १४, ऋक् ३

संहिता

नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्ध॑न्ते॒ रायो॑ अ॒र्यः ।
तूर्व॑न्तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्ष॑न्तो अव्र॒तम् ॥

पदपाठः

नाना॑ । हि । अ॒ग्ने॒ । अव॑से । स्पर्ध॑न्ते । रायः॑ । अ॒र्यः ।
तूर्व॑न्तः । दस्यु॑म् । आ॒यवः॑ । व्र॒तैः । सीक्ष॑न्तः । अ॒व्र॒तम् ॥

सायणभाष्यम्

हेअग्ने अर्यः अरेःशत्रोः रायोधनानि अवसे त्वत् स्तोतॄणांरक्षणार्थं नाना शत्रुसकाशात् पृथक् भूताः स्पर्धन्ते अहमेवपालयान्यहमेव- पालयानीतिस्पर्धांकुर्वन्ति आयवोमनुष्यास्ते चस्तोतारः दस्युमुपक्षपयितारंशत्रुं तूर्वन्तोहिंसन्तः व्रतैस्त्वद्देवत्यैर्यागैः अव्रतंव्रतविरोधिनं- चपुरुषं सीक्षन्तः सोढुमभिभवितुमिच्छन्तोभवन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६