मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १

संहिता

इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृञ्जसे गि॒रा ।
वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ॥

पदपाठः

इ॒मम् । ऊं॒ इति॑ । सु । वः॒ । अति॑थिम् । उ॒षः॒ऽबुध॑म् । विश्वा॑साम् । वि॒शाम् । पति॑म् । ऋ॒ञ्ज॒से॒ । गि॒रा ।
वेति॑ । इत् । दि॒वः । ज॒नुषा॑ । कत् । चि॒त् । आ । शुचिः॑ । ज्योक् । चि॒त् । अ॒त्ति॒ । गर्भः॑ । यत् । अच्यु॑तम् ॥

सायणभाष्यम्

हेवीतहव्यऋषे भरद्वाजवा वः त्वं विभक्तिवचनयोर्व्यत्ययः इममु इममेवाग्निं गिरा स्तुत्या सुऋंजसे सुष्ठुप्रसाधय ऋंजतिःप्रसाधनक- र्मेतियास्कः । कीदृशमतिथिं सततंगन्तारं यद्वा अतिथिवत्पूज्यं उषर्बुधं उषसिप्रबुद्धं विश्वासां सर्वासां विशां प्रजानां पतिं पालयितारं जनुषा जन्मना स्वतएवशुचिः शुद्धोनिर्मलोवाग्निः कच्चित् कदाचित् कस्मिंश्चित् यागकाले दिवोद्युलोकात् आवेति आगच्छति तदानींप्र- साधयेत्यन्वयः एवंप्रसाधितोग्निः गर्भः अरण्योर्मध्ये गर्भवद्वर्तमानः यद्वा द्यावापृथिव्योर्गर्भभूतःसन् यद्धविः अच्युतं च्युतिरहितं नित्यं अग्निहोत्रादिसाधनभतं पयःप्रभृतिकं तत् ज्योक् चित् चिरकालं अत्ति भक्षयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७