मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् २

संहिता

मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम् ।
स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥

पदपाठः

मि॒त्रम् । न । यम् । सु॒ऽधि॑तम् । भृग॑वः । द॒धुः । वन॒स्पतौ॑ । ईड्य॑म् । ऊ॒र्ध्वऽशो॑चिषम् ।
सः । त्वम् । सुऽप्री॑तः । वी॒तऽह॑व्ये । अ॒द्भु॒त॒ । प्रश॑स्तिऽभिः । म॒ह॒य॒से॒ । दि॒वेऽदि॑वे ॥

सायणभाष्यम्

वनस्पतावरण्यां सुधितं सुष्ठुनिहितं ईड्यं स्तुत्यं ऊर्ध्वशोचिषं उच्छ्रिततेजस्कं यमग्निंत्वां मित्रंनमित्रमिव सखिभूतमिव भृगवोमहर्ष- यः दधुरादधुः गृहेस्थापितवन्तः हेअद्भुत महन्नग्ने सतादृशस्त्वं वीतहव्ये एतत्संज्ञेऋषौ सुप्रीतः सुष्ठुप्रीयमाणोभव यतः दिवेदिवे प्रति- दिनं प्रशस्तिभिः प्रकृष्टैःस्तोत्रैः महयसे पूज्यसे भरद्वाजऋषिश्चेत् वीतहव्येदत्तहविष्के भरद्वाजइतियोजनीयम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७