मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् ४

संहिता

द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रम् ।
विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ॑ञ्जसे ॥

पदपाठः

द्यु॒ता॒नम् । वः॒ । अति॑थिम् । स्वः॑ऽनरम् । अ॒ग्निम् । होता॑रम् । मनु॑षः । सु॒ऽअ॒ध्व॒रम् ।
विप्र॑म् । न । द्यु॒क्षऽव॑चसम् । सु॒वृ॒क्तिऽभिः॑ । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । दे॒वम् । ऋ॒ञ्ज॒से॒ ॥

सायणभाष्यम्

हेवीतहव्य त्वं सुवृक्तिभिः शोभनाभिःस्तुतिभिः ह्व्यवाहं हविषांवोढारं देवमग्निं ऋंजसे प्रसाधय कीदृशं द्युतानं दीप्यमानं वोयुष्मा- कं अतिथिमतिथिवत्पूज्यं स्वर्णरं स्वर्गस्यनेतारं मनुषोमनोःप्रजापतेर्यज्ञे होतारं देवानामाह्वातारं स्वध्वरं शोभनयज्ञं विप्रंन मेधाविनं- विपश्चितमिव द्युक्षवचसं दीप्तेर्निवासभूतंद्युक्षं तादृशवाक्योपेतं अरतिमर्यंस्वामिनं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७