मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् ५

संहिता

पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।
तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥

पदपाठः

पा॒व॒कया॑ । यः । चि॒तय॑न्त्या । कृ॒पा । क्षाम॑न् । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना॑ ।
तूर्व॑न् । न । याम॑न् । एत॑शस्य । नु । रणे॑ । आ । यः । घृ॒णे । न । त॒तृ॒षा॒णः । अ॒जरः॑ ॥

सायणभाष्यम्

योग्निः पावकया शोधयित्र्या चितयन्त्या चेतयन्त्या प्रज्ञापयन्त्या कृपा दीप्त्या क्षामन् भूम्यां रुरुचे दीप्यते उषसोनभानुना यथाउष- सः प्रकाशेनभासन्तेतद्वत् अपिच यामन् यामनि सङ्ग्रामे तुर्वन्न शत्रून् हिंसन् पुरुषइव एतशस्य एतत्संज्ञकस्यऋषेरणे सूर्येणसहसंग्रामे सहायार्थं योमिर्नुक्षिप्रंआघृणे आदीप्यते प्रैतशंसूर्येपस्पृधानमितिनिगमान्तरम् । नूनं सर्वेदेवास्तस्य साहाव्यमकार्षुः यश्च ततृषाणस्तृषितः प्रभावेनसर्वभक्षणशीलः अजरः जरारहितश्चभवति तं देवमृंजसइतिपूर्वस्यामृचिसंबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७