मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् ७

संहिता

समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् ।
विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसम् ॥

पदपाठः

सम्ऽइ॑द्धम् । अ॒ग्निम् । स॒म्ऽइधा॑ । गि॒रा । गृ॒णे॒ । शुचि॑म् । पा॒व॒कम् । पु॒रः । अ॒ध्व॒रे । ध्रु॒वम् ।
विप्र॑म् । होता॑रम् । पु॒रु॒ऽवार॑म् । अ॒द्रुह॑म् । क॒विम् । सु॒म्नैः । ई॒म॒हे॒ । जा॒तऽवे॑दसम् ॥

सायणभाष्यम्

समिद्धं सम्यग्दीप्तमग्निं समिधा समिंधनहेतुभूतया गिरा स्तुत्या गृणे स्तौमि यद्वा समिधा समिद्भिर्दारुभिः समिद्धं सम्यगिद्धं अपिच शुचिं स्वयंशुद्धं पावकं सर्वेषांशोधकं ध्रुवं निश्चलं तमग्निं अध्वरे यज्ञे पुरस्करोमीतिशेषः तथाविप्रं मेधाविनं होतारं देवानामाह्वातारं पुरुवारं बहुभिर्वरणीयं अद्रुहं अद्रोग्धारंसर्वेषामनुकूलं कविं क्रान्तदर्शिनं जातवेदसं जातानां वेदितारमग्निं सुम्नैः सुखकरैःस्तोत्रैः ईमहे सं- भजामहे यद्वा द्वितीयार्थेतृतीया सुम्नानि धनानि ईमहे याचामहे ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८