मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् ८

संहिता

त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्य॑म् ।
दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥

पदपाठः

त्वाम् । दू॒तम् । अ॒ग्ने॒ । अ॒मृत॑म् । यु॒गेऽयु॑गे । ह॒व्य॒ऽवाह॑म् । द॒धि॒रे॒ । पा॒युम् । ईड्य॑म् ।
दे॒वासः॑ । च॒ । मर्ता॑सः । च॒ । जागृ॑विम् । वि॒ऽभुम् । वि॒श्पति॑म् । नम॑सा । नि । से॒दि॒रे॒ ॥

सायणभाष्यम्

हेअग्ने त्वां देवासोदेवाश्च मर्तासोमनुष्याश्च दूतं दधिरे विदधिरेकृतवन्तः कीदृशंत्वां अमृतममरणं युगेयुगे कालेकाले तत्तद्यागानुष्ठान- समये हव्यवाहं हव्यानांहविषांवोढारं पायुं पालयितारमीड्यंस्तुत्यं अपिच ते उभयविधाः जागृविं जागरणशीलं विभुं व्याप्तं विश्पतिं विशांप्रजानांपालयितारं तमग्निं नमसानमस्कारेण हविर्लक्षणान्नेनवा निषेदिरे उपसेदिरे ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८