मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् ९

संहिता

वि॒भूष॑न्नग्न उ॒भयाँ॒ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे ।
यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥

पदपाठः

वि॒ऽभूष॑न् । अ॒ग्ने॒ । उ॒भया॑न् । अनु॑ । व्र॒ता । दू॒तः । दे॒वाना॑म् । रज॑सी॒ इति॑ । सम् । ई॒य॒से॒ ।
यत् । ते॒ । धी॒तिम् । सु॒ऽम॒तिम् । आ॒ऽवृ॒णी॒महे॑ । अध॑ । स्म॒ । नः॒ । त्रि॒ऽवरू॑थः । शि॒वः । भ॒व॒ ॥

सायणभाष्यम्

हेअग्ने उभयानुभयविधान् देवान् मनुष्यांश्च विभूषन् विशेषेणभूषयन् अलंकुर्वन् त्वां अनुव्रता व्रतान्यनु व्रतेषु कर्मसु यागेषु देवानां- दूतःसन् रजसी द्यावापृथिव्यौ समीयसे संचरसि देवानानेतुंद्युलोकंगच्छसि हवींषिचनेतुमिमंलोकं किंच य्द्यस्मात्तेतुभ्यं त्वदर्थं धीतिं कर्म सुमतिं शोभनांस्तुतिंच आवृणीमहे वयंसंभजामहे अध अतःकारणात् त्रिवरूथस्त्रिस्थानस्त्वं नोस्माकं शिवःसुखकरोभव स्मेत्येतत्पा- दपूरणम् ॥ ९ ॥ प्रातरनुवाकाश्विनशस्त्रयोराग्नेयेक्रतौत्रैष्टुभेछन्दसि तंसुप्रतीकमित्याद्याः षळृचः सूत्रितंच—तंसुप्रतीकमितिषळिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८