मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १०

संहिता

तं सु॒प्रती॑कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम ।
स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥

पदपाठः

तम् । सु॒ऽप्रती॑कम् । सु॒ऽदृश॑म् । सु॒ऽअञ्च॑म् । अवि॑द्वांसः । वि॒दुःऽत॑रम् । स॒पे॒म॒ ।
सः । य॒क्ष॒त् । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । प्र । ह॒व्यम् । अ॒ग्निः । अ॒मृते॑षु । वो॒च॒त् ॥

सायणभाष्यम्

अविद्वांसोवैदुष्यरहिताअल्पमतयोवयं विदुष्टरं विद्वत्तरं सर्वज्ञंतमग्निं सपेम परिचरेम कीदृशं सुप्रतीकं शोभनांगं सुदृशं शोभनद्रष्टारं स्वंचं सुष्ठुअञ्चन्तं गच्छन्तं किंच सतादृशोग्निः यक्षत् देवान् यजतु विश्वा सर्वाणि वयुनानि ज्ञाननामैतत् इहतुज्ञातव्येवर्तते ज्ञातव्यान्यर्थ- जातानि विद्वान् जानन्नग्निः अमृतेषु मरणरहितेषुदेवेषु हव्यमस्मदीयं हविः प्रवोचत् प्रब्रवीतु युष्मदर्थं हविःकल्पितं तदर्थंययमागच्छते- त्येवंक्रथयत ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८