मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् ११

संहिता

तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये॑ शूर धी॒तिम् ।
य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥

पदपाठः

तम् । अ॒ग्ने॒ । पा॒सि॒ । उ॒त । तम् । पि॒प॒र्षि॒ । यः । ते॒ । आन॑ट् । क॒वये॑ । शू॒र॒ । धी॒तिम् ।
य॒ज्ञस्य॑ । वा॒ । निऽशि॑तिम् । वा॒ । उत्ऽइ॑तिम् । वा॒ । तम् । इत् । पृ॒ण॒क्षि॒ । शव॑सा । उ॒त । रा॒या ॥

सायणभाष्यम्

हेअग्ने तंपुरुषं पासि रक्षसि उतापिच तंपिपर्षि कामैःपूरयसि यःपुरुषः हेशूर शौर्यवन्नग्ने कवये क्रान्तदर्शनाय ते तुभ्यं त्वदर्थं धीतिं- कर्म स्तुतिंवा आनट् प्राप्नोति यद्वा क्रियाग्नहणंकर्तव्यमिति कर्मणःसंप्रदानत्वाच्चतुर्थी कविंत्वांधीतिंआनट् प्रापयतितंपासीत्यन्वयः अपिच यज्ञस्य यागस्य वा तत्साधनभूतस्यहविषोवा निशितिं वा निशितिःसंस्कारःतंवाउदितिं उद्गमनंवा आनट् प्रापयति तमित् तमेव शवसा बलेन पृणक्षि पूरयसि उतापिच राया धनेन पूरयसि ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९