मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १८

संहिता

जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ ।
आ दे॒वान्व॑क्ष्य॒मृताँ॑ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥

पदपाठः

जनि॑ष्व । दे॒वऽवी॑तये । स॒र्वऽता॑ता । स्व॒स्तये॑ ।
आ । दे॒वान् । व॒क्षि॒ । अ॒मृता॑न् । ऋ॒त॒ऽवृधः॑ । य॒ज्ञम् । दे॒वेषु॑ । पि॒स्पृ॒शः॒ ॥

सायणभाष्यम्

हेअग्ने सर्वताता सर्वैस्तायमानेयज्ञे मथ्यमानस्त्वं जनिष्व प्रादुर्भव किमर्थं देववीतये देवकामाययजमानाय षष्ठ्यर्थेचतुर्थ्येषा ईदृशस्य- यजमानस्य स्वस्तये अविनाशार्थं जनित्वा च अमृतान् मरणरहितान् ऋतावृधोयज्ञस्यवर्धयितॄन् देवानावक्षि आवह तदनन्तरं तेषुदेवेषु अस्मदीयंयज्ञंपिस्पृशः स्पर्शय प्रापयेत्यर्थः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०